|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.28. अध्यायः 028
Mahabharata - Sabha Parva - Chapter Topics
अर्जुनेन उत्तरदिग्विजये नानादेशजयः॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः।
अनेनैव कृतं सर्वं भविष्यत्यनुजानता॥ 2-28-1(12451)
तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः।
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम्॥ 2-28-2(12452)
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम्।
तथैवोपगिरं चैव विजिग्ये पुरुषर्षभः॥ 2-28-3(12453)
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः।
तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः॥ 2-28-4(12454)
तैरेव सहितः सर्वैरनुरज्य च तान्नुपान्।
उलूकवासिनं राजन्बृहन्तमुपजग्मिवान्॥ 2-28-5(12455)
मृदङ्गवरनादेन रथनेमिस्वनेन च।
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम्॥ 2-28-6(12456)
ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा।
निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम्॥ 2-28-7(12457)
सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः।
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम्॥ 2-28-8(12458)
सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः।
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः॥ 2-28-9(12459)
स तद्राज्यमवस्थाप्य उलूकसहितो ययौ।
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत्॥ 2-28-10(12460)
मोदापुरं वामवेदं सुदामानं सुसङ्कुलम्।
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्॥ 2-28-11(12461)
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात्।
किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः॥ 2-28-12(12462)
स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति।
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः॥ 2-28-13(12463)
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम्॥
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ॥ 2-28-14(12464)
विजित्य चाहवे शूरान्पार्वतीयान्महारथान्।
जिगाय सेनया राजन्पुरं पौरवरक्षितम्॥ 2-28-15(12465)
पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः।
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः॥ 2-28-16(12466)
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः।
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह॥ 2-28-17(12467)
ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा।
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः॥ 2-28-18(12468)
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः।
उरगावासिनं रम्यं रोचमानं रणेऽजयत्॥ 2-28-19(12469)
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम्।
प्राधमद्बलमास्थाय पाकशासनिराहवे॥ 2-28-20(12470)
ततः सुह्यांश्च चोलांश्च किरीटी पाण्डवर्षभः।
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः॥ 2-28-21(12471)
ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः।
महता परिमर्देन वशे चक्रे दुरासदान्॥ 2-28-22(12472)
गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः।
दरदान्सहकाम्भोजैरजयत्पाकशासनिः॥ 2-28-23(12473)
प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः।
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः॥ 2-28-24(12474)
लोहान्परमकाम्भोजानृषिकानुत्तरानपि।
सहितांस्तान्महाराज व्यजयत्पाकशासनिः॥ 2-28-25(12475)
ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः।
तारकामयसङ्काशः परस्त्वृषिकपार्थयोः॥ 2-28-26(12476)
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि।
शुकोदरसमांस्तत्र हयानष्टौ समानयत्॥ 2-28-27(12477)
मयूरसदृशानन्यानुत्तरानपरानपि।
जवनानाशुगांश्चैव करार्थं समुपानयत्॥ 2-28-28(12478)
स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कृटम्।
श्वेतपर्वतमासाद्य न्यविशत्पुरुषर्षभः॥ ॥ 2-28-29(12479)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टाविंशोध्यायः॥ 28॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|